Bookstruck

अथ कामधेनुकल्पः प्रारभ्यते

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »
श्रीगणेशाय नमः ॥
आचम्य प्राणानायम्य देश - कालौ स्मृत्वा एवंगुण - विशेषणविशिष्टायां शुभतिथौ, गोत्रंः, नामधेयंः, श्रीमान्गोत्रस्य नामध्येयस्य मम इहजन्मानि गुरोरुपदेशितस्य दशाक्षरकामधेनुमंत्रसिद्धये इत आरभ्य विंशतिदिनपर्यंतं दिनेदिने नित्यकर्मानंतरं तद्देवताउद्दिश्यं पंचोपचारपूजापूर्वकम् पंचसहस्रसंख्यांकक्रमेण विंशतिदिने लक्षसमसंख्यांकजपानंतरं जपदशांशः, एतत्संकल्पानंतरं दिनद्वयेन बिल्वफलशकलैर्बिल्वपत्रैर्वा दशसहस्रसंख्यांकघृतपायससहितहोमानंतरं, पुनः दिनैकेन शुद्धजलेन सहस्रसंख्यांकतर्पणं, ततःपरदिने एतन्मंत्रोच्चारणपूर्वकं स्वशिरसि शतसंख्यांकमार्जनम्, ततः परदिने दशसंख्यांकब्राह्मण भोजनरूपरश्चरणकर्माहं करिष्ये ॥ ॐ अस्य श्रीकामधेनु दशाक्षरमहामंत्रस्य वसिष्ठऋषिः, गायत्रीछंन्दः, श्रीकामधेनुर्देवता, क्लीं बीजं र्‍ही श्रींशक्तिः, धें कीलकम्, श्रीकामधेनुप्रीत्यर्थे जपे विनियोगः ॥ ॐ क्लीं अंहृदयानमः ॐ र्‍हींतंशिरसे स्वाहा ॐ श्रीं मंशिखायैवौषट ॥ ॐ धें अंकवचाय हुं ॥ ॐ धेनवे नेत्रत्रयायवौषट् ॥ ॐ नमः अस्त्राय फट् ॥ लोकत्रयेण दिग्बंधः ॥ पचस्तनीं चतुःश्रृंगीं चतुष्पादां चतुर्भुजाम् ॥ चतुर्वर्गफलांदायीं भावितां सुरभीं भजे ॥ ॐ लं पृथ्वीतत्वात्त्मिकायै श्रीकामधेन्वेनमः गंधं परिकल्पयामि नमः ॥ इति पंचोपचारैः पूजा ॥ अथ मनुः ॐ क्लींर्‍हींश्रींधें धेनवे नमः ॥ लक्षजपेन सिद्धिर्भवति ॥
॥ इति श्रीकामधेनुकल्पः समाप्तः ॥

« PreviousChapter ListNext »