Bookstruck

सौत्रामणी - अनुवाकः ५

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »


 देवं बर्हिः सरस्वती सुदेवमिन्द्रायाश्विना तेजो न चक्षुरक्षोर् बर्हिषा दधुरिन्द्रियम् , वसुवने वसुधेयस्य वेतु , यज देवीर् द्वारो, अश्विना भिषजेन्द्रं सरस्वती प्राणान् न वीर्यं नसि द्वारो दधुरिन्द्रियम् , वसुवने वसुधेयस्य व्यन्तु , यज देवी उषासा, अश्विना सुत्रामेन्द्रं सरस्वती बलं न वाचं आस्ये उपाभ्यां(उषाभ्यां) दधुरिन्द्रियम् , वसुवने वसुधेयस्य वीताम् , यज देवी जोष्ट्री सरस्वत्यश्विनेन्द्रमवर्धयन् , श्रोत्रं न कर्णयोर्यशो जोष्ट्रीभ्यां दधुरिन्द्रियम् , वसुवने वसुधेयस्य वीताम् , यज देवी ऊर्जाहुती दुघे, सुदुघेन्द्रं सरस्वती अश्विना भिषजावतं शुक्रं न ज्योतिः स्तनयोराआहुती धत्त इन्द्रियम् , वसुवने वसुधेयस्य वीताम् , यज देवा देवानां भिषजा होतारा इन्द्रमश्विना वषट्कारैः सरस्वती त्विषिं न हृदये मतिम् होतृभ्यां दधुरिन्द्रियम् , वसुवने वसुधेयस्य वीताम् , यज देवीस्तिस्र, स्तिस्रो देवीरश्विनेडा सरस्वती शूषं न मध्ये नाभ्या इन्द्राय दधुरिन्द्रियम् , वसुवने वसुधेयस्य व्यन्तु, यज देव इन्द्रो नराशंसस्त्रिवरूथः सरस्वत्या अश्विभ्यां ईयते रथो, रेतो न रूपममृतं जनित्रं इन्द्राय त्वष्टा दधदिन्द्रियाणि, वसुवने वसुधेयस्य वेतु, यज देवो देवैर्वनस्पतिर् हिरण्यपर्णो अश्विभ्यां सरस्वत्या सुपिप्पल इन्द्राय पच्यते मधु ओजो न जूतिर् वृषभो न भामं वनस्पतिर्नो दधदिन्द्रियाणि, वसुवने वसुधेयस्य वेतु, यज देवं बर्हिर्वारितीनामध्वरे स्तीर्णमश्विभ्यां ऊर्णम्रदाः सरस्वत्या स्योनमिन्द्र ते सद ईशाया मन्युं राजानं बर्हिषा दधुरिन्द्रियम् , वसुवने वसुधेयस्य वेतु, यज देवो अग्निः स्विष्टकृद्देवान् यक्षद्यथायथं होतारा इन्द्रमश्विना वाचा वाचं सरस्वतीम् अग्निं सोमं स्विष्टकृत् स्विष्टा इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवो वनस्पतिः, स्विष्टा देवा आज्यपाः, स्विष्टो अग्निरग्निना होता होत्रे स्विष्टकृत्सहो न दधदिन्द्रियम् ऊर्जमपचितिं स्वधां, वसुवने वसुधेयस्य वेतु, यज ॥
 

« PreviousChapter ListNext »