Bookstruck

सौत्रामणी - अनुवाकः ११

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »


 समिद्धो अग्निः समिधा सुसमिद्धो वरेण्यः ।गायत्री छन्द इन्द्रियं त्रियविर्गौर्वयो दधुः ॥तनूनपाच् शुचिव्रतस्तनूपाश्च सरस्वती ।उष्णिक् छन्द इन्द्रियं दित्यवाड् गौर्वयो दधुः ॥इडाभिरग्निरीड्यः सोमो देवो अमर्यःगौ ।अनुष्टुप् छन्द इन्द्रियं पञ्चाविर्गौर्वयो दधुः ॥सुबर्हिरग्निः पूषण्वान्ती ुयंर्णबर्हिरमर्यःधु ।बृहती छन्द इन्द्रियं त्रिवत्सो गौर्वयो दधुः ॥दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः ।पङ्क्तिश्छन्द इन्द्रियं तुर्यवाड् गौर्वयो दधुः ॥उषे यह्वी सुपेशसा विश्वे देवा अमर्त्याः ।त्रिष्टुप् छन्द इन्द्रियं पृष्ठवाड् गौर्वयो दधुः ॥दैव्या होतारा भिषजेन्द्रेण सयुजा युजा ।जगती छन्द इन्द्रियमनड्वान् गौर्वयो दधुः ॥तिस्रो देवीरिडा मही भारती मरुतो विशः ।विराट् छन्द इन्द्रियं धेनुर्गौर्न वयो दधुः ॥त्वष्टा तुरीपो अद्भुत इन्द्राग्नी पुष्टिवर्धना ।द्विपदा छन्द इन्द्रियम् उक्षा गौर्न वयो दधुः ॥शमिता नो वनस्पतिः सविता प्रसुवन् भगम् ।ककुप् छन्द इहेन्द्रियमृषभो गौर्वयो दधुः ॥स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् ।अतिछन्दा इन्द्रियं बृहद्वशा वेहद्वयो दधुः ॥
 

« PreviousChapter ListNext »