Bookstruck

सौत्रामणी - अनुवाकः १२

Share on WhatsApp Share on Telegram
« PreviousChapter List


 वसन्तेन ऋतुना देवा वसवस्त्रिवृता स्तुतं ।रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥ग्रीष्मेण ऋतुना देवा रुद्राः पञ्चदशे स्तुतं ।बृहता यशसा बलं हविरिन्द्रे वयो दधुः ॥वर्षाभिर् ऋतुनादित्याः स्तोमे सप्तदशे स्तुतं ।वैरूपेण विशौजसा हविरिन्द्रे वयो दधुः ॥शारदेन ऋतुना देवा एकविंश ऋभवः स्तुतं ।वैराजेन श्रिया श्रियं हविरिन्द्रे वयो दधुः ॥हेमन्तेन ऋतुना देवास्त्रिणवे मरुतः स्तुतं ।बलेन शक्वरीः सहो हविरिन्द्रे वयो दधुः ॥शैशिरेण ऋतुना देवास्त्रयस्त्रिंशेऽमृतं स्तुतं ।सत्येन रेवतीः क्षत्रं हविरिन्द्रे वयो दधुः ॥इति तृतीयकाण्डे सौत्रामणीयो नाम एकादशः प्रपाठकः ॥(मैत्रायणीसंहिता - काण्डं 3)
 

« PreviousChapter List